Table of Contents

<<5-3-40 —- 5-3-42>>

5-3-41 विभाषा ऽवरस्य

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्य अस्तातौ परतो विभाषा अवित्ययम् आदेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

विभाषाऽवरस्य। `अस्ताति चे'ति पूर्वसूत्रादस्तातीत्यनुवर्तते। तदाह–अवरस्येति। एवमिति। पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा–पुरः पुरस्तादित्यादि। पूर्वस्मिन्गुराविति। पूर्वकालिकाध्यापनकर्तरीत्यर्थः। ननु `दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह–अस्ताति चेतीत्यादि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.