TBD.
सप्तम्यान्तम् एतत्। अस्तातिप्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति। इदम् एव आदेशविधानं ज्ञापकम् , अस्तातिरेभ्यो भवति, असिप्रत्ययेन न आध्यते इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्।
TBD.
–
अस्ताति च। `अस्ताती'ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा। `पूर्वाधरावराणा'मिति `पुरधव' इति चानुवर्तते। तदाह–अस्ताताविति। यद्यपि सूत्रक्रमे `पूर्वाधरे'ति `अस्ताति चे'ति सूत्रमुपन्यसनीयम्। तत्रानुवृत्तिप्रदर्शनाय `पूर्वाधरे'त्यपि सूत्रमिहैवोपन्यस्तम्। पुर इति। पूर्वाशब्दादसिप्रत्ययः प्रकृतेः `पुर्' आदेशः। पुरस्तादिति। पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः `पुर्' आदेशः। अधः, अधस्तादिति। अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः `अध्' आदेशे रूपम्। अव इति। अवरशब्दादसिप्रत्ययेप्रकृतेः `अव्' आदेशे रूपम्।
1485 पुरः पुरस्तादिति। कथं तर्हि `पश्यामि तामित इतः पुरतश्च पश्चा'दिति भवभूतिः, `स्यात्पुरः परुतोऽग्रतः'इत्यमरः, `पुरतः प्रथमे चाऽग्रे'इति वि\उfffदास्च?। `समानकालीनं' `पूर्वकालीन'मित्यादिवत्प्रामादिकमेवेति बहवः। केचित्तु `दक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौ `अतसु'जित्यकारोच्चारणमन्यतोऽपि विधानार्थम्। तेन पुरत इति सिध्यति। `पुर अग्रगमने' क्विपि–पुर्। `र्वोः'इति दीर्घस्तु न भवति, भत्वात्। न च अतसुचाश्चित्त्वेऽप्यकारोच्चारणं पक्षे आद्युदात्तत्वार्थमिति वाच्यं, बहूनां प्रयोगानुरोधेनाऽन्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः। यथासङ्ख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम्। अधस्ताद्वसति अधस्तादागतः–इत्यादि सिध्यति।
TBD.