Table of Contents

<<5-3-34 —- 5-3-36>>

5-3-35 एनवन्यतरस्याम् अदूरे ऽपञ्चम्याः

प्रथमावृत्तिः

TBD.

काशिका

उत्तराधरदक्षिणशब्देभ्यः एनप् प्रत्ययो भवत्यनतरस्याम् अस्तातेरर्थे अदूरे चेदवधिमानवधेर् भवति। विभक्तित्रये प्रकृते ऽपञ्चग्या इति पञ्चमी पर्युदस्यते। तेन अयं सप्तमीप्रथमान्ताद् विज्ञायते प्रत्ययः। उत्तरेण वसति, उत्तराद् वसति, उत्तरतो वसति। उत्तरेण रमणीयम्, उत्तराद् रमणीयम्, उत्तरतो रमणीयम्। अध्रेण वसति अधराद् वसति, अघस्ताद् वसति। अधरेण रमणीयम्, अधराद् रमणीयम्, अधस्ताद् रमणीयम्। दक्षिणेन वसति, दक्षिणाद् वसति, दक्षिणातो वसति। दक्षिणेन रमणीयम्, दक्षिणाद् रमणीयम्, दक्षिणतो रमणीयम्। अदूरे इति किम्? उत्ताराद् वसति। अपञ्चम्याः इति किम्? उअत्तरादागतः। अपज्चम्याः इति प्रागसेः। असिप्रतयस् तु पञ्चम्यन्तादपि भवति। केचिदिह उत्तरादिग्रहणं न अनुवर्तयन्ति। दिक्शब्दमात्रात् प्रत्ययं मन्यन्ते। पूर्वेण ग्रामम्। अपरेण ग्रामम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एनबन्यतरस्याम्। `अपञ्चम्या इति प्रागसे'रिति भाष्यम्। सूत्रक्रमे `पूर्वाधरे'त्यसिं वक्ष्यति ततः प्रागित्यर्थः। उत्तरादिभ्य इति। उत्तराधरदक्षिणादित्यनुवर्तत इति भावः। `अदूरे' इत्येतद्व्याचष्टे–अवध्यवधिमतोः सामीप्ये इति। पञ्चमीं विनेति। पञ्चम्यन्तान्न भवतीत्यर्थः। यथास्वमिति। एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः। दिक्छब्दमात्रादिति। अञ्चत्यन्तात्तु नेदम्, व्यवस्थितविभाषाश्रयणात्। तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः।

तत्त्वबोधिनी

1487 पञ्चम्यन्तं विनेति। नेह—उत्तरादागतः। अधरादागतः। उत्तरेणेत्यादि। वसति रमणीयं वा। पक्षे यथास्वमिति। दक्षिणतः। उत्तरतः। अधः। अधस्तात्। उत्तारात्।अधरात्। दक्षैणात्।

Satishji's सूत्र-सूचिः

TBD.