Table of Contents

<<5-3-29 —- 5-3-31>>

5-3-30 अञ्चेर् लुक्

प्रथमावृत्तिः

TBD.

काशिका

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्य अस्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। लुक् तद्धितलुकि 1-2-49 इति स्त्रिप्रत्ययो ऽपि निवर्तते। प्राग् वसति। प्रागागतः। प्राग् रमणियम्। प्रत्यग् वसति। प्रत्यगागतः। प्रत्यग् रमणीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

अञ्चेर्लुक्। प्राच्यामिति। लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक्।

तत्त्वबोधिनी

1486 प्राच्यां प्राच्या इति। प्राच्यादिशि वसति–प्राग्वसति। प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम्।

Satishji's सूत्र-सूचिः

TBD.