Table of Contents

<<5-3-29 —- 5-3-31>>

5-3-30 अञ्चेर् लुक्

प्रथमावृत्तिः

TBD.

काशिका

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्य अस्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। लुक् तद्धितलुकि 1-2-49 इति स्त्रिप्रत्ययो ऽपि निवर्तते। प्राग् वसति। प्रागागतः। प्राग् रमणियम्। प्रत्यग् वसति। प्रत्यगागतः। प्रत्यग् रमणीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अञ्चेर्लुक्। प्राच्यामिति। लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक्।

तत्त्वबोधिनी

1486 प्राच्यां प्राच्या इति। प्राच्यादिशि वसति–प्राग्वसति। प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम्।

Satishji's सूत्र-सूचिः

TBD.