Table of Contents

<<5-3-30 —- 5-3-32>>

5-3-31 उपर्युपरिष्टात्

प्रथमावृत्तिः

TBD.

काशिका

उपरि उपरिष्टतित्येतौ शब्दौ निपात्येते अस्तातेरर्थे। ऊर्ध्वस्य उपभावः रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। ऊर्ध्वायां दिशि वसति उपरि वसति। उपर्यागतः। उपरि रमणीयम्। उपरिष्टद् वसति। उपरिष्टादागतः। उपरिष्ताद् रमणीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

उपर्युपरिष्टात्। `उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे'ति भाष्यम्। तदाह–अस्तातेर्विषये इत्यादिना। वसति, आगतो, रमणीयं वेति– विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम्। प्रत्ययः' इति भाष्यवाक्यमिदम्। प्रत्यये इकार उच्चारणार्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.