Table of Contents

<<5-3-15 —- 5-3-17>>

5-3-16 इदमो र्हिल्

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्याः इत्येव, काले इति च। इदमः सप्तम्यन्तात् काले वर्तमानात् र्हिल् प्रत्ययो भवति। हस्य अपवादः। लकारः स्वरार्थः। अस्मिन् काले एतर्हि। काले इत्येव, इह देशे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1214 सप्तम्यन्तात् काल इत्येव..

बालमनोरमा

1940 इदमो र्हिल्। इदमः–र्हिल् इति च्छेदः। एतर्हीति। इदम्?शब्दात् र्हिल्। `एतेतौ रथो'रित्येतादेशः।

तत्त्वबोधिनी

1478 एतर्हीति। `एततौ रथोः'एत्येतादेशः।

Satishji's सूत्र-सूचिः

TBD.