Table of Contents

<<5-3-14 —- 5-3-16>>

5-3-15 सर्वएकान्यकिंयत्तदः काले दा

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्याः इति वर्तते, न तु इतराभ्यः इति। सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति। त्रलो ऽपवादः। सर्वस्मिन् काले सर्वदा। एकदा। अन्यदा। कदा। यदा। तदा। काले इति किम्? सर्वत्र देशे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1212 सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्..

बालमनोरमा

1939 सर्वैकान्य। सप्तम्यन्तेभ्य इति। `सर्वादिभ्य' इति शेषः। `सप्तम्या' इत्येवानुवर्तते, व्याख्यानादिति भावः। सदा सर्वदेति। `सर्वस्य सोऽन्यतरस्यां दी'ति सभावविकल्पः। कदेति। किंशब्दाद्दाप्रत्यये सति तस्य `किमः कः' इति कादेशः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.