Table of Contents

<<5-3-16 —- 5-3-18>>

5-3-17 अधुना

प्रथमावृत्तिः

TBD.

काशिका

अधुना इति निपात्यते। इदमो ऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1941 अधुना। `इदम' इति, सप्तम्या' इति, `काले' इति चानुवर्तते। तदाह–इदम इति। इशिति। `इदम इ' शित्यनेने'ति शेषः। अधुनेति। `इय'दितिवत्प्रत्ययमात्रं शिष्यते। पठन्ति चाभियुक्ताः `उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते।ञपि प्रपञ्चे। सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ?।' इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः।

तत्त्वबोधिनी

1479 अधुनाप्रत्यय इति। निपातनान्मध्योदात्तोऽयम्। भाष्यमतं चेदम्। वृत्तिकारस्त्वाह—इदमो अश्भावो धुना च प्रत्यय इति। तत्र `ऊडिद'मित्यादिना विभक्तितस्वरः, स च `आदेः परस्ये'त्यादेर्भवतीति हरदत्तः। विहितत्वात्। दावचनमिति। `तदश्चे

Satishji's सूत्र-सूचिः

TBD.