Table of Contents

<<5-3-13 —- 5-3-15>>

5-3-14 इतराभ्ह्यो ऽपि दृश्यन्ते

प्रथमावृत्तिः

TBD.

काशिका

सप्तमीपञ्चम्यपेक्षम् इतरत्वम्। इतराभ्यो विभक्तिभ्यस् तसिलादयो दृश्यन्ते। दृशिग्रहणम् प्रायिकविध्यर्थं, तेन भवदादिभिर् योग एव एतद् विधानम्। के पुनर् भवदादयः? भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति। स भवान्, ततो भवान्, तत्र भवान्। तं भवन्तं, तत्र भवन्तम्, ततो भवन्तम्। तेन भवता, तत्र भवता, ततो भवता। तस्मै भवते, तत्र भवते, ततो भवते। तस्माद् भवतः, तत्र भवतः , ततो भवतः। तस्मिन् भवति, तत्र भवति, ततो भवति। एवं दीर्घयुःप्रभृतिष्वप्युदाहार्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1211 पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते. दृशिग्रहणाद्भवदादियोग एव. स भवान्. ततो भवान्. तत्र भवान्. तम्भवन्तम्. ततो भवन्तम्. तत्र भवन्तम्. एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्..

बालमनोरमा

1938 इतराभ्यो।ञपि दृश्यन्ते। पञ्चमीसप्तमीतरविभक्तिभ्योऽपीत्यर्थः। फलितमाह– पञ्चमीसप्तमीतरविभक्त्यन्तादपीति। `किमादे'रिति शेषः। एवमिति। स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घीयुरित्याद्यूह्रमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.