Table of Contents

<<5-3-12 —- 5-3-14>>

5-3-13 वा ह च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

किमः सप्तम्यनताद् वा हः प्रत्ययो भवति छन्दसि विसये। यथाप्राप्तं च। क्व। कुह। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1936 वाह च छन्दसि। `हे'ति लुप्तुप्रथमाकम्। किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः। चादत्, त्रल्च। यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः।

तत्त्वबोधिनी

1477 वा ह च छन्दसि। पूर्वोक्तस्य वाग्रहणापकर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम्। अत इति। एतस्माद्ग्रामादित्यर्थः। ततो भवता तत्र भवता। ततो भवते थत्रभवते इत्यादि। एवमिति। ततो दीर्घायुस्तत्र दीर्घायुरित्याद्यूह्रमित्यर्थः। सदेति। `सर्वस्य सोऽन्यतरस्यां दी'ति सभावः। कदेति। `किमः कः'।

Satishji's सूत्र-सूचिः

TBD.