TBD.
आयुधजीविसङ्घातिति निवृत्तम्। अभिजिदादिभ्यो ऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति। अभिजितो ऽपत्यम् इत्यण्, तदन्ताद् यञ्। आभिजित्यः, आभिजित्यौ, आभिजिताः। वैदभृत्यः, वैदभृत्यौ, वैदभृताः। शालावत्यः, शालावत्यौ, शालावताः। शैखावत्यः। शामीवत्यः। और्णावत्यः। श्रौमत्यः। गोत्रप्रत्ययस्य अत्र अणो ग्रहणम् इष्यते। अभिजितो मुहुर्तः, आभिजितःस्थालीपाकः इत्यत्र न भवति।
TBD.
–
अभिजिद्विदभृत्। अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत्– एषां समाहारद्वन्द्वात्पञ्चम्या लुक्। अण इति प्रत्ययत्वात्तदन्तग्रहणम्। तदाह– अभिजिदादिभ्य इति। अत्र `आयुधजीविसङ्घादिति निवृत्त'मिति वृत्तिः।आभिजित्य इति। अभिजितोऽपत्यम् आभिजितः। अपत्येऽण्। आभिजित एव आभिजित्यः। वैदभृत्य इति। विदभृत्यः। शालावत्य इति। शालावतोऽपत्यं शालावतः, स एव शालावत्यः। शैखावत्यैति। शिखावतोऽपत्यं शैखावतः। स एव शैखावत्यः। शामीवत्य इति। `शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः। और्णावत्य इति। ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः। श्रौमत्य इति। श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः। अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहे `गोत्रचरणा'दिति वुञि`आपत्यस्य चे'ति यलोपे `आभिजितक' इति भवति। `अपत्याऽणन्तेभ्य एवायं यञ्। तेन आभिजितो मुहूर्त इत्यादौ न य'ञिति भाष्ये स्पष्टम्।
1541 आभिजित्य इति। आभिजितशब्दादणन्ताद्यञ्। एवं विदभृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदभृत —-शालावतः—शैखावतादिब्योयञ्।
TBD.