TBD.
आयुधजीविसङ्घातित्येव। पर्श्वादिभ्यः यौधेयादिभ्यश्च प्रातिपदिकेभ्यः आयुधजीविसङ्घवाचिभ्यः स्वार्थे ऽणञौ प्रत्ययौ भवतः। पार्शवः, पर्शवौ, पार्शवः। आसुरः, आसुरौ, असुराः। यौधेयः। शौक्रेयः। पर्शु। असुर। रक्षस्। बाह्लीक। वयस्। मरुत्। दशार्ह। पिशाच। विशाल। अशनि। कार्षापण। सत्वत्। वसु। पर्श्वादिः। यौधेय। कौशेय। क्रौशेय। शौक्रेय। शौभ्रेय। धार्तेय। वार्तेय। जाबालेय। त्रिगर्त। भरत। उशीनर। यौधेयादिः।
TBD.
–
पर्\उfffदाआदियौधेयादि। एभ्य इति। पर्\उfffदाआदिभ्यो यौधेयादिभ्यश्चेत्यर्थः। पार्शव इति। पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वर्थेषु `द्व्यञ्मगधे'त्यण्। ततोऽपत्यसङ्घविवक्षायामनेन अणिति भावः। पर्शव इति। अपत्वसङ्गबहुत्वविवक्षायां प्रकृतस्याऽणोऽपि तद्राजत्वाल्लुक्, `ञ्यादस्तद्राजाः' इति वक्ष्यमाणत्वादिति भावः। यौधेय इति। युधाशब्दादपत्येऽर्थे `द्व्यचः' इति ढक्। तदन्ताऽपत्यसङ्घविवक्षायामनेन अञ्। ञित्त्वमाद्युदात्तत्वफलकम्। यौधेया इति। अपत्यसङ्घबहुत्वविवक्षायां `तद्राजस्ये'त्यञो लुक्। `कितः' इत्यन्तोदात्तं फलम्।
1540 पार्शव इति। `पर्शु'रितिस जनपदशब्दस्ततोऽपत्ये `व्द्यञ्?मगधे'त्यण्। बहुत्वे तद्राजत्वाल्लुक्। पुनः सङ्घविवक्षायामनेनाऽण्। अस्याप्यणो बहुत्वे तद्राजत्वाल्लुक्। तदाह—पर्शव इति। ननु `पर्शु'रिति यो जनपदशब्दस्तस्मादेवाऽनेन स्वार्थेऽम् विधीयताम्, अपत्यवाचिपर्शुशब्दात्सङ्घविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत्। अत्राहुः—केवलः पर्शुशब्द एव जनपदवाचीस न त्वणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तु `व्द्यञ्?मगधे'त्यणः `तद्राजस्य बहुषु'इत्यादिना लुकि बह्वपत्यवाचिपर्शुशब्दादेव स्वार्थे विधीयते। स्वार्थश्चात्र सङ्घ एव। न च पर्शुशब्दस्य सङ्घवाचित्वं नेति शङ्क्यं, बह्वपत्यवाचित्वे सङ्घवाचितवध्रौव्यादिति न काप्यनुपपत्तिरिति। यौधेय इति। युध्यतेऽसौ युधा। युधेरिगुपधलक्षणः कः। युधाया अपत्यं। `व्द्यचः'इति ढक्। तदन्तात्सङ्घाविवक्षायामनेनाऽञ्। तेन `यौधेय'इति आद्युदात्तं भवति। किं च यौधेयस्याऽङ्को लक्षणं वा यौधेयः। `संघाङ्कलक्षणे'त्यञन्तादञ्। एवं यौधेयाधिषु ये ढगन्ताः शौक्रेयदयस्तेषु सर्वेषु प्रयोजनद्वयमह्रम्। यौधेया इति। अञो लुक्। अन्तोदात्तम्। न च `न प्राच्यभर्गे'त्यादिना न#इषेधः शङ्क्यः, स्त्रियामेव तन्निषेधात्।
TBD.