Table of Contents

<<5-3-115 —- 5-3-117>>

5-3-116 दामन्यादित्रिगर्तष्ठाच् छः

प्रथमावृत्तिः

TBD.

काशिका

आयुधजीविसङ्घातिति वर्तते। दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति। येषाम् आयुधजीविनां सङ्घानां षडन्तवर्गास् तेषाम् च त्रिगर्तः षष्ठः। त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्युच्यन्ते। तेषु च इयं स्मृतिः आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तो ऽर्थ जानकिः। इति। दामन्यादिभ्यस् तावत् दामनीयः, दामनीयौ, दामनयः। औलपीयः, औलपीयौ, उलपयः। त्रिगर्तषष्ठेभ्यः खल्वपि कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः। दाण्डकीयः, दाण्डकीयौ, दाण्डकयः। कौष्टकीयः। जालमानीयः। ब्रहमगुप्तीयः। जानकीयः। दामनी। औलपि। आकिदन्ती। काकरन्ति। काकदन्ति। शत्रुन्तपि। सार्वसेनि। बिन्दु। मौञ्जायन। उलभ। सावित्रीपुत्र। दामन्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

दामन्यादि। दानिरादिर्यस्य दामन्यादिः। त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः। दामन्यादिश्च त्रिगत्र्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी। फलितमाह–दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति। आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगत्र्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत्। के ते त्रिगर्तषष्ठा इत्यत आह–आहुरिति। कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः। `जालकि'रिति त्रिगर्तस्य नामान्तरम्। एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ। शेष इञन्तः। दामादिगणमुदाहरति–दामनीय इति। दामनिरेव दामनीयः। औलपीति। प्रकृतिप्रदर्शना। औलपीय इति। औलपिशब्दात्स्वार्थे छः। त्रिगर्तेति। त्रिगर्तषष्ठानामुदाहरणसूचनमिदम्। कौण्डोपरथीय इति। कौण्डोपरथशब्दात्स्वार्थे छः। दाण्डकीय इति। दाण्डकिशब्दात्वार्थे छः। क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः– इत्यप्युदाहार्यम्।

तत्त्वबोधिनी

1539 दामन्यादित्रिगर्तषष्ठात्। समाहारद्वन्द्वात्पञ्चमी। त्रिगर्तषष्ठेभ्य इति। येषामायुधजीविनां षङन्तर्वर्गाः, षष्ठवर्गस्तु त्रिगर्तस्तेभ्य इत्यर्थः। त्रिगर्तवर्गषष्ठकाः के इत्याकाङ्क्षायामाह—आहुस्त्रिगर्तषष्ठांश्चेति। अत्र जानकयस्त्रिगर्तवर्गः। तेषु च त्रिगर्तषष्ठेषु[तु]प्रथमपञ्चमौ कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः। केचित्तु अतद्धितान्तमेव पञ्चमं ब्राहृगुप्तशब्दं पठन्ति। कौण्डोपरथीय इति। बहुवचने तु कौण्डोरपथाः दाण्डकय इत्यादि।

Satishji's सूत्र-सूचिः

TBD.