Table of Contents

<<5-3-114 —- 5-3-116>>

5-3-115 वृकाट् टेण्यण्

प्रथमावृत्तिः

TBD.

काशिका

आयुधजीविसङ्घातिति वर्तते। वृकशदातायुधजीविनः स्वार्थे टेण्यण् प्रत्ययो भवति। टकारो ङीबर्थो, णकारो वृद्ध्यर्थः। वार्केण्यः, वार्केण्यौ, वृकाः। आयुधजीविसङ्घविशेषणं, जातिशब्दान् मा भूत्। कामक्रोधौ मनुस्याणां खादितारौ वृकाविव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

वृकाट्टेण्यण्?। वृको नाम कश्चिदायुधजीविसङ्घः। स एव वार्केण्यः। आदिवृद्धिः। रपरत्वम्। जातिविशेषादिति। वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जातिविशेषः प्रसिद्धः,तस्मान्नेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.