TBD.
तदित्यनेन प्रकृत इवार्थो निर्देश्यते। इवार्थविषयात् समासादपरस्मिन्निवार्थे एव छन्ः प्रत्ययो भवति। कालतालीयम्। अजाकृपाणीयम्। अन्धकवर्तकीयम्। अतर्कितोपनतं चित्रीकरणमुच्यते। तत् कथम्? काकस्यागमनं यादृच्छिकम्, तालस्य पतनं च। तेन तलेन पतता काकस्य वधःकृतः। एवम् एव देवदत्तस्य तत्रागमनं, दस्यूनां च उपनिपातः। तैश्च तस्य वधः कृतः। तत्र यो देवदत्तस्य दस्यूनां च समागमः, स काकतालसमागमसदृशः इत्येकः उपमार्थः, अतश्च देवदत्तस्य वधः, स कालतालवधसदृशः इति द्वितीयः उपमार्थः। तत्र प्रथमे समासः, द्वितीये प्रत्ययः। समासश्च अयम् अस्मादेव ज्ञापकात्, न ह्यस्य अपरं सक्षणम् अस्ति। सुप्सुपेति वा समासः। स च एवम् विषय एव।
TBD.
–
समासाच्चा। तच्छब्देन प्रकृत इवार्थः परामृश्यते। तदाह–इवार्थविषयादिति। इवार्थः सादृश्यमुपमानोपमेयभावात्मकं, तद्विषयकादित्यर्थः। सादृस्यवदथबोधकात्समासादिति यावत्। यद्यपि घनश्याम इति समासोऽपि सादृश्यवदर्थबोधकस्तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात्समासादिति विवक्षितमिति न दोषः। छः स्यादिति। चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः। `इवार्थे'इति शेषः। `पूगाञ्ञ्यः' इत्यतः प्रागिवाधिकारात्। ततश्च इवार्थसमस्यमानयावत्पकात्समासादिवार्थे छः स्यादिति लभ्यते। काकतालीयो देवदत्तस्य वध इति। काकः कश्चिदकस्मात्ताल वृक्षस्य मूलं गतस्तालफलपतनान्भृतः। तथैव कश्चिद्देवदत्तोऽकस्मान्निर्जनप्रदेशे क्वचिद्गतश्चोरेण हतस्तत्रेदं वाक्यं प्रवृत्तम्। अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतम् अन्यत्सादृश्यं च भासते। तथाहि–काकगमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः। अत्र `काक' शब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः। `ताल'शब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः। काकागमनसदृशं देतवदत्तागमनं, तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः। यद्यप्यत्र काकतालशब्दयोर्मिलितय#ओरेकत्रान्वयाऽभावाद्द्वन्द्वसमासो न संभवति, परस्परान्वयाऽभावेन असामथ्र्याच्च, तथापि अस्मादेव विधिबलात् `सुप्सुपा' इति समासः। तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः। तदाह– इहेत्यादि। अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः। तदेवंविदात्समासात्काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः। तत्र समासात्मककाकतालशब्दबूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमकृते उपमेयत्वं च छप्रत्ययेन गम्यते। ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते। तदाह–तत्प्रयुक्त इति। तादृशतालपतनप्रयुक्तेत्यर्थः। सदृश इत्यनन्तरं `देवदत्तवध' इति शेषः। तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्देतुकस्तालपतनकृत काकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवं `काकलतालीयो देवदत्तवध' इति समासाद्बोधः।एतदेवाभिप्रेत्योक्तं भाष्ये `काकागमनमिव तालपतनमिव काकतालम्। काकतालमिव काकतालीय'मिति। अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वान्न भवति, इवान्तरार्थस्य सादृश्यान्तरस्याऽप्रतीतेरित्यलम्। अजाकृपाणीय इति। अजागमनमिव कृपाणपतनमिव अजाकृपाणम्, तदिव अजाकृपाणीयः। अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः, कृपाणपतनप्रयुक्ताऽजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः। अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह–अतर्कितेति।
1537 काकतालीय इति। प्रकृतसूत्रादेव ज्ञापकादिवार्थे समासः। सुप्सुपेति वा। उभयथापि विशेषसंज्ञाविनिर्मुक्तः। स च छप्रत्ययविषय एव। तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः। इह काकतालेत्यादि। आगच्छतः काकस्याऽकस्मात्ताल फलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमाद्देवदत्तवधः। एवमजाया आगच्छन्त्याः कृपापतनाद्यथ वधः, तत्सदृशं मरणमिति फलितोऽर्थः। अतर्कितोपनत इति। अचिन्तितोपपन्नः। यादृस्छिक इत्यर्थः।
TBD.