Table of Contents

<<5-3-103 —- 5-3-105>>

5-3-104 द्रव्यं च भव्ये

प्रथमावृत्तिः

TBD.

काशिका

द्रव्यशब्दो विपात्यते भव्ये ऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते। द्रव्यम्, भव्यः, आत्मवानधिप्रेतानाम् अर्थनां पात्रभूत उच्यते। द्रव्यो ऽयं राजपुत्रः। द्रव्यो ऽयं माणवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

द्रव्यं च भव्ये। द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये। भव्य आत्मवान्। `अभिप्रेतानामर्थानां पात्रभूतः' इति वृत्तिः। द्रव्यमयमिति। द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः। यद्वा द्रुः=कल्पवृक्षो।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः। यप्रत्यये ओर्गुणः। अवादेशः।

तत्त्वबोधिनी

1536 द्रव्यं च भव्ये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते। समासाच्च तद्विषयात्। तच्छब्देन प्रकृत इवार्थो निर्दिश्यते इत्याह—इवार्थविषयादिति। थः स्यादिति। इवार्थे इति बोध्यम्। `पूगाञ्ञ्यः'इत्यतः प्रागिवेत्याधिकारात्। शास्त्री श्यामेत्यादौ तु एक एव इवार्थः, स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात्।

Satishji's सूत्र-सूचिः

TBD.