TBD.
प्राणिस्थवाचिनः शब्दाताकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थातिति किम्? शिखावान् प्रदीपः। आतिति किम्? हस्तवान्। पादवान्। प्राण्यङ्गादिति वक्तव्यम्। इह मा भूत्, चिकीर्षा ऽस्य अस्ति चिकीर्षावान्, जिहीर्षा ऽस्य अस्ति जिहीर्षावान्। प्रत्ययस्वरेण एव अन्तोदात्तत्वे सिद्धे, चकारश्चूडालो ऽस्ति इत्यत्र स्वरितो वानुदत्ते पदादौ 8-2-6 इति स्वरितबाधनार्थः।
TBD.
1190 चूडालः. चूडावान्. प्राणिस्थात्किम्? शिखावान्दीपः. प्राण्यङ्गादेव. मेधावान्..
1878 प्राणिस्थात्। आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः। शिखावान् दीप इति। अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः। प्राण्यङ्गादेवेति। भाष्ये तथा वचनादिति भावः। ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह– प्रत्ययस्वरेणेति। चूडालोऽसीति। तत्र असीत्येतत् `तिङ्ङतिङः' इति निहतम्। चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्य `एकादेश उदात्तेने'त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात् `स्वरितो वाऽनुदात्ते' इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः।
1443 प्राणिस्थात्। शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता। शिखशब्दस्य व्रीह्रादिपाठेन लचोऽप्रसङ्गात्। `चूडावान् वृक्षः'इति प्रत्युदाहार्यमिति हरदत्तः। न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम्, मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात्। प्राण्यङ्गादेवेति। एतच्चेतिकरणानुवृत्त्या लभ्यते। चूडालोऽसीति। `असी'त्यस्य `तिङ्ङतिङः'इति निगातः। चूडालशब्दात्सोरुत्वे तस्य `अतो रोरप्लुता'दित्युकारे कृते, हलां स्नंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः। सुप्स्थानिकस्यापि सुप्त्वात् `अनुदात्तौ सुप्पितौ'इत्यनुदात्त इत्यन्ये। पूर्वेण सह आद्गुणे सति `एकादेश उदात्तेने'त्योकार उदात्तः। ततः `एङः पदान्तादती'ति पूर्वरूपमेकादेशस्तस्य `स्वरितो वाऽनुदात्ते'इत्यादिना स्वरिते प्राप्ते तद्बाधनाय चकार इत्यर्थः।
TBD.