TBD.
रसादिभ्यः प्रातिपदिकेभ्यः मतुप् प्रत्ययो भवति तदस्य अस्त्यस्मिनित्येतस्मिन् विषये। रसवान्। रूपवान्। किमर्थम् इदम् उच्यते, न पूर्वसूत्रेण एव मतुप् सिद्धः? रसादिभ्यः पुनर् वचनम् अन्यनिवृत्त्यर्थम्, अन्ये मत्वर्थीया मा भूवन्निति। कथं रूपिणी कन्या, रूपिको दारकः? प्रायिकम् एतद् वचनम्। इतिकरणो विवक्षार्थो ऽनुवर्तते। अथ वा गुणातिति अत्र पठ्यते। तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषाम् अत्र पाठः। इह मा भूत्, रूपिणी, रूपिकः इति। शोभायोगो गम्यते। रसिको नटः इत्यत्र भावयोगः। रस। रूप। गन्ध। स्पर्श। शब्द। स्नेह। गुणात्। एकाचः। गुनग्रहणं रसादीनां विशेषणम्।
TBD.
–
1870 रसादिभ्यटश्च। मतुबिति। शेषपूरणमिदम्। `उक्तविषये' इति शेषः। पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह–अन्यमत्वर्थीयेति। `अत इनिठनौ' इत्यादिनिवृत्त्यर्थमित्यर्थः। रसादीन्पठति–रसरूपेत्यादि भावेत्यन्तम्। गुणादिति। एकाच इति। गणसूत्रम्। उदाहरति-स्ववानिति। गुणग्रहणमिति। गुणादित्येतद्रसादीनां षण्णां विशेषणमित्यर्थः। तेन गुणवाचकानामेव एषां ग्रहणाज्जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानामिह न ग्रहणमिति भावः। `रसिको नटः' `स्पर्शिकं वारि' इत्यादि प्रयोगदर्शनादिदं सूत्रं भाष्ये प्रत्याख्यातम्।
1440 अन्यमत्वर्थीयेति। कथं तर्हि `रूपिमी कन्या' `रसिको नटः'इति?। अत्राहुः— रसादिगणे `गुणात्'इति पठ\उfffद्ते। तेन गुणवाचिभ्य एवाऽन्यमत्वर्थीयस्य निषेधः, रूपिणीत्यत्र तु रूपशब्देन सौन्दर्यं गृह्रते। तच्च न गुणः। `रसिक'इत्यत्र तु रसशब्देन भावो गृह्रते, न तु रसनाग्राह्रो गुण इति। लुगिष्ठ। गुणवचनेभ्य इति। गुणे तद्वति च प्रसिद्धा ये शुक्लादयस्त एव गृह्रन्ते न तु रूपादयोऽपि। तेन रूपं वरुआमित्यादिप्रयोगो न भवति।
TBD.