Table of Contents

<<5-2-90 —- 5-2-92>>

5-2-91 साक्षाद् द्रष्टरि संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

साक्षाच्छब्दो ऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणम् अभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ। साक्षिणः। संज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1866 साक्षाद्द्रष्टरि। `साक्षा'दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम्। साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः। साक्षीति। यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते। साक्षादित्यव्ययादिनिप्रत्ययः। `अव्ययानां भमात्रे' इति टिलोपः।

तत्त्वबोधिनी

1436 साक्षाद्द्रष्टरि। द्रष्टर्यर्थे इनिः स्यात्। साक्षाच्छ6ब्दोऽव्ययम्, तेन `प्रकृतिवदनुकरण'मित्यतिदेशादिह सूत्रे पञ्चम्या लुक्। `उदः स्थास्तम्भोः', `अवाच्छालम्बने'त्यादौ तु `प्रकृतिव'दित्यतिदेशस्य वैकल्पिकत्वेनाऽभ्ययत्वाऽभावात् पञ्चम्या लुङ् न भवतीति बोध्यम्। साक्षीति। `अव्ययानां भमात्रे'इति टिलोपः। यद्यपि साक्षाद्द्रष्टाररुआयो भवन्ति, दाता ग्रहीता उपद्रष्टा त, तथापीह संज्ञाग्रहणात्साक्षिशब्देनोपद्रष्टैवोच्यत इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.