Table of Contents

<<5-2-89 —- 5-2-91>>

5-2-90 अनुपद्यन्वेष्टा

प्रथमावृत्तिः

TBD.

काशिका

अनुपदी इति निपात्यते अन्वेष्टा चेत् स भवति। पदस्य पश्चादनुपदम्। अनुपदी गवाम्। अनुपदी उष्ट्राणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1865 अनुपद्यन्वेष्टा। पदस्य पश्चादनुपदम्। पश्चादर्थे अव्ययीभावः। सप्तम्या अम्भावः। अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते।

तत्त्वबोधिनी

1435 अनुपद्यन्वेष्टा। अन्वेष्टरि इनिः प्रत्ययो निपात्यते। अनुपदमिति। पदस्य पश्चात्। पश्चादर्थेऽव्ययीभावः। अनुपदीगवामिति। पदापेक्षया षष्ठी गोपदात्। पश्चादन्वेषणं गवामेव। तेन हिरण्यादावन्येष्ये न भवतीति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.