Table of Contents

<<5-2-8 —- 5-2-10>>

5-2-9 अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु

प्रथमावृत्तिः

TBD.

काशिका

अनुपदाऽदिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः यथासङ्ख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति। अनुः आयामे सादृश्ये वा। अनुपदं बद्धा उपानतनुपदीना। पदप्रमाणा इत्यर्थः। सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः। अयः प्रदक्षिणम्, अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारैः पदानामसमावेशः सो ऽयानयः। अयानयं नेयः अयानयीनः शारः। फलकशिरःस्थित इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1787 अनुपदं बद्धेति। क्रियाविशेषणत्वाद्द्वितीया। अनुपदीना उपानदिति। पदसम्बन्धिदैर्ध्योपलक्षितेत्यर्थः। पदेन सदृशीति वा। तत्तुल्यपरिमाणेति यावत्। ?यानय इति द्यूते शाराणां प्रदक्षिणपरिवर्तनम्–अयः, प्रसव्यपरिवर्तनम्-अनयः। अयसहितः अनयः-अयानयः। प्रदक्षिणप्रसव्यगामिना यस्मिन्युग्यमादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः। एतत्सर्वं भाष्ये स्पष्टम्। `समहायस्य शारस्य परैर्नाक्रम्यते पदम्। असहायस्तु शारेण परकीयेण बाध्यते। इति द्यूतशास्त्रामर्यादा। विस्तरस्तु कैयटमनोरमादावनुसन्धेयः। तं नेय इति। तं=स्थानविशेषमयानयाख्यं, प्रापणीय इत्यर्थः। णीञ्द्विकर्मकः। `प्रधाने कर्मणि यत्, अप्रधाने द्वितीया' इति भावकर्मलकारप्रक्रियायां वक्ष्यते।

तत्त्वबोधिनी

1377 अनुपदसर्वान्नायानयं। `बद्धाभक्षयती'त्यत्र निपातनातिङन्तेन सह द्वन्द्वः। द्वितीयान्तेभ्योऽनुपाददिभ्यो यथासङ्ख्यं बद्धादिष्वर्थेषु खः स्यात्। अनुरायाम इत्यादि। `यस्य चायामः'इति , यथार्थे–`ऽव्यय'मिति वा अव्ययीभाव इत्यर्थः। सर्वान्नीन इति। प्रकारकार्त्स्न्ये सर्वशब्दः। यान्यन्नानि लभ्यन्ते उष्णानि शीतलामि सरसानि वा सर्वाणि भक्षयतीत्यर्थः। `अयः—प्रदक्षिणगमनम्। अनयः— प्रसव्यगमनम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानः'इति

प्रथमावृत्तिः

TBD.

काशिका

। तं नेय इति। नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया। आयानयीनः शारैति। `फलकशिरसि स्थित इत्यर्थः'इति काशिका।

Satishji's सूत्र-सूचिः

TBD.