Table of Contents

<<5-2-7 —- 5-2-9>>

5-2-8 आप्रपदं प्राप्नोति

प्रथमावृत्तिः

TBD.

काशिका

प्रपदम् इति पादस्य अग्रम् उच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणम् आख्यायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1786 आप्रपदमिति। `आङ्मर्यादाभिविध्यो'रित्यव्ययीबावः। अनुपद। अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया। बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी। तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः। अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः। अनुरायामे सादृश्ये वेति। आद्ये `यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.