Table of Contents

<<5-2-85 —- 5-2-87>>

5-2-86 पूर्वादिनिः

प्रथमावृत्तिः

TBD.

काशिका

अनेन इति प्रत्ययार्थः कर्ता ऽनुवर्तते। न च क्रियाम् अन्तरेण कर्ता सम्भवति इति यां काञ्चित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं गतम् अनेन पीतम् भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1185 पूर्वं कृतमनेन पूर्वी..

बालमनोरमा

1861 पूर्वादिनिः। अनेनेति कर्तृतृतीयान्तमनुवर्तते। कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम्। उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते। ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः।

तत्त्वबोधिनी

1432 पूर्वादिनिः। पूर्वमिति क्रियाविशेषणाद्द्वितीयान्तात्प्रत्ययः। `अनेने'ति कर्तृवाचकमनुवर्तते। न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्मत्य प्रत्ययो विधेयस्तदाह—पूर्व कृतमनेनेति।

Satishji's सूत्र-सूचिः

TBD.