Table of Contents

<<5-2-86 —- 5-2-88>>

5-2-87 सपूर्वाच् च

प्रथमावृत्तिः

TBD.

काशिका

विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम्, तस्य पूर्वशब्देन तदन्तविधिः। सपूर्वात् प्रतिपदिकात् पूर्वशब्दान्तातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं कृतम् अनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। सुप् सुपा इति समासं कृत्वा तद्धित उत्पाद्यते। योगद्वयेन च अनेन पूर्वादिनिः 5-2-86), सपूर्वच् च (*5,2.87 इति परिभाषाद्वयं ज्ञाप्यते, व्यपदेशिवद्भावो ऽप्रातिपदिकेन, ग्रहणवता प्रातिपदिकेन तदन्तविधिर् न अस्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1186 कृतपूर्वा..

बालमनोरमा

1862 सपूर्वाच्च। विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः। पूर्वान्तादिति यावत्। प्रातपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम्। कृतपूर्वी कटमिति। अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम्।

तत्त्वबोधिनी

1433 सपूर्वाच्च। `अनेने'ति, पूर्वसूत्रं चानुवर्तते। विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थे इनिः स्यात्। `पूर्वान्ताच्चे'त्येतत्फलितम्। कृतपूर्वबीति। कृतपूर्वशब्दयोः `सुप्सुपा'इति समासः। इह प्रातिपदिकाधिकारात् `पूर्वादिनि'रित्यनेनैव पूर्वशब्दान्तप्रातिपदिकात्कृतपूर्वशब्दादिनौ सिद्धे `सपूर्वाच्चे'त्येतत् `ग्रहणवता प्रातिपदिकेन तदन्ततविधिर्ने'ति परिभाषां ज्ञापयति। `कृतपूर्वी'त्येतत्सिद्धये `पूर्वान्ताच्चे'ति स्वीकृते तेनैव व्यपदेशिवद्भावेन पूर्वीत्यपि रूपे सिद्धे `पूर्वादिनिः'इत्येतत् `व्यपदेशिवद्भावोऽप्रातिपदिकेने'ति परिभाषां ज्ञापयति।

Satishji's सूत्र-सूचिः

TBD.