Table of Contents

<<5-2-84 —- 5-2-86>>

5-2-85 श्राद्धम् अनेनन् भुक्तम् इनिठनौ

प्रथमावृत्तिः

TBD.

काशिका

श्राद्धम् इति प्रकृतिः। अनेन इति प्रत्ययार्थः। भुक्तम् इति प्रकृतिविशेषणम्। श्राद्धशब्दाद् भुक्तोपाधिकादनेन इत्यस्मिन्नर्थे इनिठनौ प्रत्ययौ भवतः। श्राद्धशब्दः कर्मनामधेयम् तत् साधनद्रव्ये वर्तित्वा प्रत्ययम् उत्पादयति। श्राद्धं भुक्तम् अनेन श्राद्धी, श्राद्धिकः। इनिठनोः समानकालग्रहणं कर्तव्यम्, अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1860 श्राद्धमनेन। प्रथमान्ताच्छ्राद्धशब्दाद्भुक्तमनेनेत्यर्थे इनिठनौ [एतौ] स्त इत्यर्थः। श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः। इनिप्रत्यये नकारादिकार उच्चारणार्थः।

तत्त्वबोधिनी

1431 श्राद्धमनेन। श्रद्धाऽस्मिन्नस्तीति श्राद्धम्। `प्रज्ञाश्रद्धाऽर्चाभ्यो णः'। यद्यपि पित्र्यं कर्मश्राद्धशब्देनोच्यते, तथापीह तत्साधनद्रव्यमुच्यते, मुख्यश्राद्धस्य भोक्तुमशक्यत्वात्। श्राद्धे। श्राद्धिक इति। अद्यतन एवेष्यते, अद्य भुक्ते \उfffदाः श्राद्धिक इति मा भूत्।

Satishji's सूत्र-सूचिः

TBD.