TBD.
श्रोत्रियनिति निपात्यते छन्दो ऽधीते इत्येतस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश् छन्दो ऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन् च प्रत्ययः। कथं छन्दो ऽधीते छन्दसः? बाग्रहणम् अनुवर्तते तावतिथं ग्रहणम् इति लुग् वा 5-2-77 इत्यतः।
TBD.
1184 श्रोत्रियः. वेत्यनुवृत्तेश्छान्दसः..
1859 श्रोत्रियंश्छन्दोऽधीते। द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते। अध्येत्रणोऽपवादः। वेत्यवृत्तेरिति। `तावतिथ'मिति सूत्रान्मण्डूकप्लुत्ये'ति शेषः। ततश्च घनभावे अद्येत्रणिति भावः। वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम्।
1430 श्रोत्रियन्। यश्छन्दोऽधीते सः श्रोत्रियो भवति। अत्र भाष्ये `छन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते'इति वाक्यार्थे पदवचनपक्षः। `छन्दसो वा श्रोत्रभावो निपात्यते, तदधीत इत्येतस्मिन्नर्थे, घश्च प्रत्ययः'इति पक्षान्तरं च स्थितम्। व्याख्यातं च कैयटेन `वाक्यार्थस्य =संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात्,श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्ययी अभिधीयत इति। `एकां शाखामधीत्य श्रोत्रियो भवती'ति धर्मशास्त्रम्। वेत्यनुवृत्तेरिति। `तावतिथं ग्रहणमिति लुग्वे'त्यतः।
TBD.