Table of Contents

<<5-2-81 —- 5-2-83>>

5-2-82 तदस्मिन्नन्नं प्राये संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

ततिति प्रथमासमर्थादस्मिनिति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं अन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहण तदन्तोपाधिः। गुडापूपाः प्रायेण अन्नम् अस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी। वटकेभ्य इनिर् वक्तव्यः। वटकिनी पौर्णमासी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1857 तदस्मिन्नन्नं। प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः। वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.