TBD.
अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनाच् च यथायोगं समर्थविभक्तियुक्तात् रोगे ऽभिधेये कन् प्रत्ययो भवति। कालो देवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीये ऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात् विषपुष्पैर् जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यम् अस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रातिह संज्ञाग्रहणम् अपकृष्यते। तेन अयं प्रकारनियमः सर्वो लभ्यते।
TBD.
–
1856 कालप्रयोजनाद्रोगे। काल, प्रयोजन–अनयोः समाहारद्वन्द्वः। तदाह– कालवचनात्प्रयोजनवचनाच्चेति। `यथोचितविभक्त्यन्ता'दिति शेषः। कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात्। तदाह–द्वितीयेऽहनीति। प्रयुज्यतेऽनेनेति करणे ल्युटि `प्रयोजनं'साधनम्। कर्मणि ल्युटि तु फलम्। तदाह–प्रयोजनं कारणं रोगस्य फलं वेति।
1429 द्वितीयेऽहनीति। यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यप्र्रकरणादिना वृत्तिविषये काले वर्तत इति भावः। ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेदत्राहुः— उत्तरसूत्रस्थसंज्ञापकर्षणाच्छब्दस्वाभाव्याद्वा तद्बोध्यमिति।
संज्ञाग्रहणात्कन्न भविष्यतीति चेत्। किं ततः?। इनेरप्राप्तत्वात्तदर्थं वचनमङ्गीकार्यमेव। `अत इनिठनौ'इत्येव कथंचिदिनिः सिध्यतीत्याशाऽत्र न कार्या, `सप्तम्यां च न तौ स्मृतौ'इति वचनात्।
TBD.