Table of Contents

<<5-2-6 —- 5-2-8>>

5-2-7 तत् सर्वाऽदेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति

प्रथमावृत्तिः

TBD.

काशिका

ततिति द्वितीया समर्थविभक्तिः। व्याप्नोति इति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। सर्वाऽदेः प्रातिपदिकात् पथिनङ्ग कर्मन् पत्र पात्र इत्येवम् अन्ताद् द्वितीयासमर्थाद् व्याप्नोति इत्यस्मिन्नर्थे खः प्रत्ययो भवति। सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वाङ्गिणः तापः। सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः। सर्वपात्रीणः ओदनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1785 तत्सर्वादेः। पथिन्, अङ्ग, कर्मन्, पत्र, पात्र-एषां समाहारद्वन्दावात्पञ्चम्यर्थे द्वितीया। प्रातिपदिकविशेषणत्वात्तदन्तविधिः। `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती'ति निषेधस्तु न, केवलानामेषां सर्वादित्वस्याऽसंभवात्। `त'दिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति। ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः प्रातिपदिकेभ्यो द्वितायान्तेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः खः स्यादित्यर्थः फलति। तदाह–सर्वादेरित्यादिना। सर्वपथानिति। `ऋक्पू'रिति समासान्ताः। आप्रपदम्। `आप्रपद'मित्यव्ययीभावाद्द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः। पदस्याग्रं प्रपदमिति। `पादाग्रं प्रपद'मित्यमरः।

तत्त्वबोधिनी

1376 तत्सर्वादेः। `त'दिति द्वितीया समर्थविभक्तिः। व्याप्नोतीति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। तत्र केवलानां पथ्यादीनां सर्वादित्वाऽसंभवात्प्रातिपदिकैरपि तैस्तदन्तविधिः। तदाह—-पथ्याद्यन्तादिति। पथ्यङ्गकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः। सर्वपथीनि इति। `पूर्वकालैके'ति समासः। `ऋक्पी'रिति समासान्तः। तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्यय।

Satishji's सूत्र-सूचिः

TBD.