Table of Contents

<<5-2-78 —- 5-2-80>>

5-2-79 शृङ्खलम् अस्य बन्धनं करभे

प्रथमावृत्तिः

TBD.

काशिका

शृङ्खलशब्दात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं बन्धनं चेद् तद् भवति, यत् तदस्य इति निर्देष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनम् अस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यातिषज्यते, तदुच्यते शृङ्खलम् इति। यद्यपि रज्ज्वादिकम् अपि तत्र अस्ति तथापि शृङ्खलम् अस्य अस्वतन्त्रीकरणे भवति साधनम् इति बन्धनम् इत्युच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1428 स एषां ग्रामणीः। `ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः। करभ इति। उष्ट्रबालकः।

Satishji's सूत्र-सूचिः

TBD.