Table of Contents

<<5-2-73 —- 5-2-75>>

5-2-74 अनुकाभिकाभीकः कमिता

प्रथमावृत्तिः

TBD.

काशिका

अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं चनिपात्यते। अनुकामयते अनुकः। अभिकः। अभीकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1850 अनुकाभिका। अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्।

तत्त्वबोधिनी

1425 अनुका। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः। अन्वभिभ्यां कन्निति। क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.