Table of Contents

<<5-2-72 —- 5-2-74>>

5-2-73 अधिकम्

प्रथमावृत्तिः

TBD.

काशिका

अधिकम् इति निपात्यते। अध्यारूढस्य उत्तरपदलोपः कन् च प्रत्ययः। अधिको द्रोणः खार्याम्। अधिका खारी द्रोणेन। कर्तरि कर्मणि च अध्यारूढशब्दः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1849 अधिकम्। अध्यारूढशब्दादिति। व्युत्पादनमात्रमिदम्। शुद्धरूढ एवायमिति बोध्यम्।

तत्त्वबोधिनी

1424 अधिकम्। अध्यारूढशब्दादिति। `गत्यार्थाकर्मके'त्यादिना रूहेः कर्तरि कर्मणि वा क्तो विहितः। आद्ये क्तप्रत्ययेन कर्मणोऽनभिहितत्वादध्यारूढशब्दयोगे द्वितीया। `अध्यारूढो द्रोणः खारी'मिति, `ग्रामं गत'इतिवत्। तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायां `यस्मादधिकं', `तदस्मिन्नधिक'मिति च निर्देशद्वयाकत्पञ्चमीसप्तम्यौ भवतः। `अधिको द्रोणः खार्याः। `अधिको द्रोणः खार्या'मिति। द्वितीये तु क्तेन कर्मणोऽभिहितत्वात्प्रथमा। `अधिका खारी द्रोणेन'। कर्मणोऽभिहितत्वादेव पञ्चमीसप्तम्याविह न शङ्कनीये।

Satishji's सूत्र-सूचिः

TBD.