Table of Contents

<<5-2-71 —- 5-2-73>>

5-2-72 शीतोष्णाभ्यां कारिणि

प्रथमावृत्तिः

TBD.

काशिका

शीतोष्णाशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो, जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी, दक्ष उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1848 शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः। उष्णमिव उष्णम्। शीघ्रमित्यर्थः। आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः। य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्याना\उfffदोव करोति स उष्णक उच्यत इति भाष्ये। संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः। तदाह– शीतकोऽलस इति। उष्णकः शीघ्रकारीति च।

तत्त्वबोधिनी

1423 शीतोष्णाभ्याम्। शीतमिव शीतम्। मन्दमित्यर्थः। शूते सति कार्यकरणे पाटवाऽभावात्। उष्णमिवोष्णम्। शीग्रमित्यर्थः। क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः। कृद्योग लक्षणा षष्ठी तु क्रियाविशेषणान्नेत्युक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति, अनभिधानात्।

Satishji's सूत्र-सूचिः

TBD.