Table of Contents

<<5-2-67 —- 5-2-69>>

5-2-68 सस्येन परिजातः

प्रथमावृत्तिः

TBD.

काशिका

कन् प्रत्ययः इत्येव स्वर्यते, न ठक्। निर्देशादेव तृतीयासमर्थविभक्तिः। सस्यशब्दात् तृतीयासमर्थात् परिजातः इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। सस्यशब्दो ऽयम् गुणवाचि। परिः सर्वतो भावे वर्तते। यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य इदम् अभिधानम्। सस्येन परिजातः सस्यकः शालिक। सस्यकः साधुः। सस्यको मणिः। आकरशुद्ध इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1844 सस्येन परिजातः। तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः। सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह–कन्स्वर्यते नतु ठगिति। स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम्। गुणवाचीति। व्याख्यानमेवात्र शरणम्। शस्येनेतीति। `शंसु स्तुतौ' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः। स्तुत्यश्च गुण एवेति भावः। परिजात इत्यस्य विवरणं–संबद्ध इति।

तत्त्वबोधिनी

1420 सस्येन। कर्मकर्तरि तृतीयेयम्। परितो जातः—परिजातः। फलितमाह—संबद्ध इति। अतएवेति। `अके नो'रिति निषेधादिति भावः।

Satishji's सूत्र-सूचिः

TBD.