Table of Contents

<<5-2-66 —- 5-2-68>>

5-2-67 उदराट् ठगाद्यूने

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, प्रसिते इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसिते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आध्यूने इति प्रत्ययार्थविशेषणम्। उदरे ऽविजिगीषुर्भण्यते। यो बुभुक्षया ऽत्यन्तं पीड्यते स एवम् उच्यते। उदरे प्रसितः औदरिकः आद्यूनः। आद्यूने इति किम्? उदरकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1843 उदराट्ठगाद्यूने। तत्र प्रसित इत्यनुवर्तते। सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह–अविजिगीषाविति। `दिवोऽविजिगाषाया'मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः। बुभुक्षयेति। क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः। उदरक इति। `मल्ल' इति शेषः। स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति। तदाह–उदर परिमार्जनादौ प्रसक्त इति। `विजिगीषये'ति शेषः।

तत्त्वबोधिनी

1419 अविजिगीषाविति। `दिवोऽविविगीषाया'मिति तत्रैव निष्ठानत्वविधानात्।

Satishji's सूत्र-सूचिः

TBD.