Table of Contents

<<5-2-65 —- 5-2-67>>

5-2-66 स्वाङ्गेभ्यः प्रसिते

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, कनिति च। स्वाङ्गवाचिभ्यः शब्देभ्यः तत्र इति सप्तमीसमर्थेभ्यः प्रसिते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। प्रसितः प्रसक्तस् तत्परः इत्यर्थः। केशेषु प्रसितः केशकः। केशादिरचनायां प्रसक्त एवम् उच्यते। बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्। दन्तौष्ठकः। केशनखकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1842 स्वाङ्गेभ्यः प्रसिते। तत्रेत्यनुवर्तते। स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन्स्यादित्यर्थः। प्रसितः=उत्सुकः। तद्रचनायामिति। वेण्यादिग्रथने इत्यर्थः। अत्रैवार्थेऽस्य साधुत्वम्, व्याख्यानादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.