Table of Contents

<<5-2-64 —- 5-2-66>>

5-2-65 धनहिरण्यात् कामे

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, कनिति च। धनहिरण्यशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। कामः इच्छा, अभिलाषः। धने कामः धनको देवदत्तस्य। हिरण्यको देवदत्तस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1841 धनहिरण्यात्कामे। तत्रेत्यनुवर्तते। धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः। काम इच्छेति। नतु कामयिता, व्याख्यानादिति भावः।

तत्त्वबोधिनी

1418 धने काम इति। `तत्रे'त्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः। उदरात्। आद्यूनशर्दार्थमाह।

Satishji's सूत्र-सूचिः

TBD.