Table of Contents

<<5-2-63 —- 5-2-65>>

5-2-64 आकर्शादिभ्यः कन्

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव, कुशलः इति च। आकर्शादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशलः इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। आकर्षे कुशलः आकर्षकः। त्सरुकः। आकर्ष। त्सरु। पिप्पसा। पिचण्ड। अशनि। अश्मन्। विचय। चय। जय। आचय। अय। नय। निपाद। गद्गद। दीप। ह्रद। ह्राद। ह्लाद। शकुनि। आकर्शादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1840 आकर्षादिभ्यः कन्। आकर्षक इति। यद्यपि वुनैवाऽनुवृत्तेनेदं सिध्यति तथापि शकुनिक' इत्यद्यर्थं कन्ग्रहणम्।

तत्त्वबोधिनी

1417 आकर्षादिभ्यः कन्। वुना सिद्धे कन्?ग्रहणं इदुदन्तार्थम्। शकुनिकः। अशनिकः। त्सरुकः। मुख्यः पाठ इति। “आकषन्त्यस्मिन् सुवर्णादिकमित्याकषः। `पुंसि संज्ञायां घः\

Satishji's सूत्र-सूचिः

TBD.