Table of Contents

<<5-2-4 —- 5-2-6>>

5-2-5 सर्वचर्मणः कृतः खखञौ

प्रथमावृत्तिः

TBD.

काशिका

सर्वचर्मन् शब्दात् तृतीयासमर्थात् कृतः इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः। सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा। तत्र अयम् असमर्थसमासो द्रष्टव्यः। सर्वश्चर्मणा कृतः इत्येतस्मिन् वाक्यार्थे वृत्तिः। सर्वचर्मीणः, सार्वचर्मीणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1783 सर्वचर्मणः। सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः। औचित्यादिह तृतीया समर्थविभक्तिः। नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह–असामर्थ्येऽपीति। सर्वश्चर्मणा कृत इति विग्रहवाक्यम्। चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्मीण इति। `नस्तद्धिते' इति टिलोपः। सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात्।

तत्त्वबोधिनी

1374 सर्वचर्मणः। `खश्चे'त्येव तु नोक्तं, यतोऽप्यनुकर्षः संभाव्येतेति। अत्र तृतीया समर्थविभक्तिः, कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात्। सर्वश्चर्मणेति। सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः।

Satishji's सूत्र-सूचिः

TBD.