Table of Contents

<<5-2-58 —- 5-2-60>>

5-2-59 मतौ छः सूक्तसाम्नोः

प्रथमावृत्तिः

TBD.

काशिका

मतौ इति मत्वर्थ उच्यते। प्रातिपदिकान् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि च अभिधेये। मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषनं, प्रत्ययार्थः इति सर्वम् आक्षिप्यते। अच्छावाकशब्दो ऽस्मिन्निति अच्छावाकीयं सूक्तम्। मित्रावरुणीयम्। यज्ञायज्ञीयं साम। वारवन्तीयम्। अनुकरनशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययम् उत्पादयन्ति। तेन अनेकपदादपि सिद्धम्। अस्यवमीयम्। कयाषुभीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1835 मतौ छः। `मतु'शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति। अच्छा वाकीयं सूक्तमिति। अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः। अच्चावाकशब्दयुक्तमित्यर्थः। अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः। वारवन्तीयं सामेति। `अ\उfffदां नत्वा वारवन्त'मित्यस्यामृच्यध्यूढमित्यर्थः। एवमस्यवामीयमित्यपि। `अस्यवामस्ये'त्यस्य एकदेशानुकरणस्यवामेति। तस्माच्छः। अस्यवामशब्दसंयुक्तमित्यर्थः। `प्रकृतिवदनुकरण'मित्यस्याऽनित्यात्वात्सुपो न लुक्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.