Table of Contents

<<5-2-59 —- 5-2-61>>

5-2-60 अध्यायानुवाकयोर् लुक्

प्रथमावृत्तिः

TBD.

काशिका

मतौ इत्येव। मत्वर्थे उत्पन्नस्य छस्य लुक् भवति अध्यायानुवाकयोः अभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदम् एव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन लुगयम् इष्यते। गर्दभाण्डशब्दो ऽस्मिन्निति गर्दभाण्डो ऽध्यायः, अनुवाको वा गर्दभान्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1836 अध्यायानुवाकयोर्लुक्। नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह–अत एवेति। विधानेति। मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः। ज्ञापकसिद्धविधानसामथ्र्यादित्यन्ये। भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः' इति वचनमेवारब्धम्। गर्दभाण्डः गर्दभाण्डीय इति। गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः। भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः।

तत्त्वबोधिनी

1416 विधानसामथ्र्यादिति। मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः। तत्र कुशलः। सप्तमीसमर्थात्पथिन्शब्दात्कुशल इत्यर्थे वुन्स्यात्।

Satishji's सूत्र-सूचिः

TBD.