Table of Contents

<<5-2-3 —- 5-2-5>>

5-2-4 विभाषा तिलमाषौमाभङ्गाऽणुभ्यः

प्रथमावृत्तिः

TBD.

काशिका

तिल माष उमा भङ्गा अणु इत्येतेभ्यः विभाषा यत् प्रत्ययो भवति भवने क्षेत्रे ऽभिधेये। खञि प्राप्ते वचनं, पक्षे सो ऽपि भवति। उमाभङ्गयोरपि धान्यत्वम् आश्रितम् एव। तिलानां भवनं क्षेत्रम् तिल्यम्, तैलीनम्। माष्यम्, माषीणम्। उम्यम्, औमीनम्। भङ्ग्यम्, भाङ्गीनम्। अणव्यम्, अणवीनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1782 विभाषा तिस। `तिल, माष, उमा, भङ्ग, अणु-एभ्यो धान्यविसेषवाचिभ्यः षष्ठ\उfffद्न्तेभ्यो यद्वा स्यादित्यर्थः। `उमाभङ्गौ धान्यविशेषौ' इति भाष्यम्। `उमा स्यादतसी क्षुमा' इत्यमरः। अणव्यमिति। अणुर्धान्यविशेषः। यति `ओर्गुणः' `वान्तो यी'त्यवादेशः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.