Table of Contents

<<5-2-47 —- 5-2-49>>

5-2-48 तस्य पूरणे डट्

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थात् सङ्ख्यावाचिनः प्रातिपदिकात् पूरणे इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यते ऽनेन इति पूरणम्। येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः। एकादशानां पूरणः एकदशः। त्रयोदशः। यस्मिन्नुपसञ्जाते ऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः। इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1178 एकादशानां पूरणः एकादशः..

बालमनोरमा

1825 तस्य पूरणे। सङ्ख्याया इत्यनुवर्तते। सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठ\उfffद्न्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः। पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः। एकादश इति। एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः। यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः। एकदेश इति यावत्। प्रवृत्तिनिमित्तेति किम् ?। पञ्चाना घटानां पूरणं जलादि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.