Table of Contents

<<5-2-48 —- 5-2-50>>

5-2-49 न अन्तादसङ्ख्याऽअदेर् मट्

प्रथमावृत्तिः

TBD.

काशिका

डटिति वर्तते। नकारान्तात् सङ्ख्यावाचिनः प्रातिपदिकातसंख्यादेः परस्य डटो मडागमो भवति। नान्तातिति पञ्चमी इट आगमसम्बन्धे षष्ठीं प्रकल्पयति। पञ्चानां पूरणः पञ्चमः। सप्तमः। नान्तातिति किम्? विंशतेः पूरणः विंशः। असङ्ख्यादेः इति किम्? एकादशानां पूरणः एकादशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1179 डटो मडागमः. पञ्चानां पूरणः पञ्चमः. नान्तात्किम्?.

बालमनोरमा

1826 नान्तासङ्ख्यादेर्मट्। डटो मडागमः स्यादिति। शेषपूरणमिदम्। डटि टकार इत्। अकार उच्चारणार्थः। पञ्चम इति। पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः। यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1410 नान्तादसङ्ख्यादेः। डट इति। `डट्'इति प्रथमान्तस्यानुवृत्तस्य `नान्ता'दिति पञ्चम्या षष्ठी कल्प्यत इति भावः। यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम्, अनुदात्तता यथा स्यात्। प्रत्ययत्वै ह्राद्युदात्तः स्यात्। तया चैकरूप्येणैव संदर्भव्याख्यानमुचितम्। अन्येत्वाहुः– मटः प्रययत्वे अकारसहितो मकारो विधेयः, आगमत्वे तु मकारमात्रमिति लाघवमस्तीति। विंश इति। विशतेः पूरणः। `ति विंशतेर्डिति'इति लोपः।

Satishji's सूत्र-सूचिः

TBD.