Table of Contents

<<5-2-46 —- 5-2-48>>

5-2-47 सङ्ख्याया गुणस्य निमाने मयट्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्यनुवर्तते तदस्य सञ्जातम् इत्यतः। तदिति प्रथमासमर्थात् सङ्ख्यावाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे मयट् प्रत्ययो भवति यत् तत् प्रथमासमर्थं गुणस्य चेन् निमाने वर्तते। गुणो भागः निमानं मूल्यम्। गुणो येन निमीयते मूल्यभूतेन सो ऽपि सामर्थ्याद् भाग एव विज्ञायते। यवानां द्वौ भागौ निमानम् अस्य उदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयम्। चतुर्मयम्। भागे ऽपि तु विधीयामानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे। तेन सामान्याधिकरण्यं भवति द्विमयमुदश्वितिति। गुणस्य इति चैकत्वं विवक्षितं, तेन इह न भवति, द्वौ भागौ यवानां त्रय उदश्वितः इति। भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते। इह न भवति, एको भागो निमानमस्य इति। भूयसः इति च प्रत्ययार्थात् प्रकृत्यर्थस्य अधिक्यमात्रं विवक्षितम्। बहुत्वमतन्त्रं, तेन द्विशब्दादपि भवति। गुणशब्दः समानावय्ववचनः। तेन इह न भवति, द्वौ भागौ यवानाम् अध्यर्ध उदश्वितः इति। निमेये चापि दृश्यते। निमेये वर्तमानायाः सङ्ख्याया निमाने प्रत्ययो दृश्यते। उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमया यवा उदश्वितः। चतुर्मयाः। गुणस्य इति किम्? द्वौ व्रीहियवौ निमानमस्य उदश्वितः। निमाने इति किम्? द्वौ गुणौ क्षीरस्य एकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेण इत्यत्र मा भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1824 सङ्ख्याया गुणस्य `तदस्ये'त्यनुवर्तते। गुणः=भागः, अंशः। निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम्। `मेङ् प्रणिदाने'। करणे ल्युट्। तदाह– भागस्य मूल्य इत्यादि। षष्ठ\उfffद्र्थे इति। अस्येत्यर्थे इत्यर्थः। `यवानां द्वौ भागौ निमानमस्योद\उfffदिआद्भागस्ये'ति विग्रहवाक्यम्। द्वाभ्यां यवप्रस्थाभ्याम् एक उद\उfffदिआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते। `द्विमयमुम\उfffदिआद्यवाना'मित्युदाहरणम्। `यवाना'मिति संबन्धसामान्ये षष्ठी। यवप्रस्थद्वयेन क्रेतव्यमुद\उfffदिआदित्यर्थः। द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः। द्वौ व्रीहियवौ निमानमस्योद\उfffदिआत इति। द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उद\उfffदिआतो निमानमित्यर्थः। अत्र उद\उfffदिआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः।

तत्त्वबोधिनी

1409 सङ्ख्याया गुणस्य। गुणो—भागः। निमीयते=क्रीयतेऽनेनेति निमानं=मूल्यम्। `मेङ् प्रणिदाने—इत्यस्मान्निपूर्वात्करणे ल्युट्। तदाह—भागस्य मूल्ये इति। षष्ठ\उfffदार्थे इति। यद्यपि `तदस्मिन्नधिक 'मित्यतः `त'दित्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या। `तदस्य संजात'मित्यतः `तदस्य'इत्यनुवर्तनात् `षष्ठ\उfffद्र्थे'इत्येतदपि लभ्यत इति भावः। द्विमयमिति। द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वात् `यवाना'मिति पदे सत्यपि तद्धितोत्पत्तिरिहाऽविरुद्धेति ज्ञेयम्। नन्वेवमपि प्रत्ययान्तस्योद\उfffदिआच्छब्देन सामानाधिकरण्यं दुर्लभम्। यावतोद\उfffदिआद्भागे प्रत्ययो विहितो, नोद\उfffदिआति। अत्राहुः—-भागेऽपि विधीयमानः प्रत्ययोऽभिदानस्वाभाञ्याद्भागवन्तमाचष्टे। तेन सामानाधिकरण्यं भवतीति। `गुणनिमाने'इति वक्तव्ये व्यस्तोच्चारणात् `एकत्वं गुणस्ये'त्यत्र विवक्षितम्। तेनेह न भवति `यवाना द्वौ भागौ निमानमेषामुद\उfffदिआतस्त्रायाणां भागाना'मिति। `भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते'। इह न भवति। एको भागो निमानमस्येति। `भूयस'इति च प्रत्ययार्थादाधिक्यमात्रं प्रकृत्यर्थस्य विवक्षितं, न तु बहुत्वम्। तेन द्विशब्दादपि भवत्येव। तस्य पूरणे। `तस्ये'ति षष्ठ\उfffद्न्तानुकरणम्। एकत्वं त्वविवक्षितम्। एकस्य पूरणाऽसम्भवात्। पूर्यतेऽनेनेति पूरणः। ण्यन्तात्करणे ल्युट्। एकादशानामिति। उद्भूतवयवभेदः समुदायः प्रकृत्यर्थः। अवयवः प्रत्ययार्थः। इह यस्मात्सङ्ख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः। यथा `अतिशायने', `याप्ये'इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्रते, अन्तरङ्गत्वात्, तथेहापि। तेन `एकादशानां घटानां पूरणो जलादि'रित्यत्र नातिप्रसङ्गशषङ्कालेशोऽपीति भावः। ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तह्र्रत्र एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत्। अत्राहुः— `वैयाकरणपाशः'इत्यत्र यथा `याप्यो वैयाकरणः'इति विग्रहः, न तु `याप्यं वैयाकरणत्व'मिति, तथेहापि बोध्यमिति। एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषु `वृद्धिरादै'जित्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव।

Satishji's सूत्र-सूचिः

TBD.