TBD.
तदस्मिन्नधिकम् इत्यनुवर्तते, डः इति च। शदन्तात् प्रातिपदिकात् विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकम् इत्येतस्मिन् विषये। त्रिंशदधिका अस्मिञ् छते त्रिंशं शतम्। शद्ग्रहने ऽन्तग्रहनं प्रत्ययग्रहणे यस्मात् स तदादेरधिकार्थम्। एकत्रिंश शतम्। एकचत्वारिंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोत्रिंशदधिका अस्मिन् गोशते इति। विंशतेश्च। विशं शतम्। तदन्तादपि इति वक्तव्यम्। एकविंशं शतम्। सङ्ख्याग्रहणं च कर्तव्यम्। इह मा भूत्, गोविंशतिरधिका ऽस्मिन् गोशते इति।
TBD.
–
1823 शदन्तविंशतेश्च। शेषपूरणेन सूत्रं व्याचष्टे–डः स्यादुक्तेऽर्थेइति। दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः। तिं?रशं शतमिति। हे सति `टि'रिति टिलोपः। विंशमिति। विंशतिरिस्मिन्नधिका इति विग्रहः। `ति विंशते'रिति तिशब्दस्य लोपः। अन्तग्रहणादेकतिं?रशं शतमिति सिद्धम्। अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात्। `विंशतावप्यन्तग्रहण'मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम्।
–
TBD.