Table of Contents

<<5-2-44 —- 5-2-46>>

5-2-45 तदस्मिन्नधिकम् इति दशान्ताड् डः

प्रथमावृत्तिः

TBD.

काशिका

ततिति प्रथमासमर्थातस्मिनिति सप्तम्यर्थे दशान्तात् प्रातिपदिकात् डः प्रत्ययो भवति यत् तत्प्रथमासमर्थम् अधिकं चेत् तद् भवति। इतिकरणस् ततश्चेद् विवक्षा। एकादश अधिका अस्मिनशते एकादशम् शतम्। एकादशं सहस्त्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तातिति किम्? पञ्च अधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशते एकादशं कार्षापनशतम् इति। इह तु न भवति, एकादश माषा अधिका अस्मिन् कार्षापणशते इति। शतसहस्रयोश्च इष्यते। इह न भवति, एकादशाधिका अस्यां त्रिंशति इति। इतिकरणो विवक्षार्थ इत्युक्तं, तत इदं सर्वं लभ्यते। कथम् एकादशम् शतसहस्रम् इति? शतानां सहस्रं, सहस्राणाम् वा शतम् इति शतसहस्रम् इत्युच्यते। तत्र शतसहस्रयोः इत्येव सिद्धम्। अधिके समानजाताविष्टं शतसहस्रयोः। यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यो मतो मम।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1408 तदस्मिन्। पुनस्तद्ग्रहणम् `अस्ये'ति षष्ठ\उfffद्न्तसंबद्धतद्ग्रहणनिरासार्थः प्रत्ययविधौ तदन्तविध्यभावादाह—दशान्तादिति। अन्तग्रहणं किम्?। दश अधिका अस्मिन्शते। न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यं, `व्यपदेशिवद्भावोऽप्रातिपदिकेने'त्यभ्युपदमात्। शदन्त प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति `यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्ये'ति परिभाषया तदादिनियमः स्यात्, तं वारयितुमन्तग्रहणम्। तेन `एकतिं?रशं शतम्' `एकचत्वारिंश'मित्यादि सिद्धम्। न चैवं गोतिं?रशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः, `सङ्ख्याया अवयवे तय'वित्यतः सङ्ख्याग्रहणानुवृत्तेः। अन्तग्रहणमिह विंशति शब्दानन्तरं कर्तव्यं `ष\उfffद्ड्वशत्यन्ताच्चे'ति। तेन `एकविंशं शत'मित्यादि सिध्यति। अन्यथा `ग्रहणवते'ति तदन्तविधिप्रतिषेधादिह न स्यात्।

Satishji's सूत्र-सूचिः

TBD.