TBD.
सङ्ख्यायाः परिमाणं सङ्ख्यापरिच्छेदः इत्यर्थः। सङ्ख्यापरिमाणे वर्तमानात् किमः प्रथमासमर्थादस्य इति षष्ठ्यर्थे डतिः प्रत्ययो भवति, चकाराद् वतुप्। तस्य च वकारस्य घादेशो भवति। पृच्छ्यमानत्वात् परिच्छेदोपाधिकायां सङ्ख्यायां वर्तमानात् किमः प्रत्ययो विज्ञायते। का सङ्ख्या परिमाणम् एषां ब्राह्मणानाम् कति ब्राह्मणाः, कियन्तो ब्राह्मणाः। अथ वा सङ्ख्या एव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते, का सङ्ख्या परिमाणं येषां इति। ननु च सङ्ख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते? यत्र अपरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति। क्षेपे हि परिच्छेदो न अस्ति, केयम् एषां सङ्ख्या दशानाम् इति।
TBD.
–
1818 किमः सङ्ख्या। तदस्येत्यनुवर्तते। सङ्ख्यायाः परिमाणं=परिच्छेदः। किंशब्दःप्रश्ने वर्तते। का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमाना\उfffद्त्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः। कतीति। का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति, `अस्ये'त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात्। का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात्। उक्तं च भाष्ये–`न द्व्येकयोः प्रश्नोऽस्ती'ति। ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दो `डति चे'ति षट्संज्ञकत्वात् `षड्भ्यो लु'गिति जश्शसोर्वुक्। कियन्त इति। कियानितिवत्प्रक्रिया। बहुवचने विशेषः। `सङ्ख्यापरिमाणे' इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति। का सङ्ख्या एषां दशानामिति। `दशाऽवरा परिष'दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म्। सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते, `अव्रतानाममत्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्त्वं न विद्यते।' इति स्मरणात्।
1404 किमः सङ्ख्या। `तदस्ये'त्यनुवर्तत एव। संख्यायाः परिमाणं=परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठ\उfffद्र्थे डतिः स्यात्। सङ्ख्यापरिमाणे किम्?। क्षेपे माभूत्। का सङ्ख्येयमेषां दशानाम्। `अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्त्वं न विद्यते इत्येवं सङ्ख्येयद्वारेणाऽत्र संख्यायां कुत्सा बोध्या।
TBD.