Table of Contents

<<5-2-2 —- 5-2-4>>

5-2-3 यवयवकषष्टिकाद् यत्

प्रथमावृत्तिः

TBD.

काशिका

यवादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति भवने क्षेत्रे ऽभिधेये। खञो ऽपवादः। यवानां भवनं क्षेत्रम् यव्यम्। यवक्यम्। षष्टिक्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1781 यवयवक। यव, यवक, षष्टिक-एभ्यः षष्ठ\उfffद्न्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः। खञोऽपवादः। `धान्याना'मित्यनुवृत्तेरिहापि षष्ठ\उfffदेव समर्थविभक्तिः।

तत्त्वबोधिनी

1373 यवयवक। अत्र प्रत्ययार्थसामथ्र्याल्लभ्या षष्ठी समर्थविभक्तिः। विभाषा खञि नित्ये प्राप्ते वचनम्। औमीनं भाह्गीनमिति। ननूमाभङ्गयोर्धान्यत्वाऽबावात्कथमिह खञ्। `व्राहियश्च मे यवाश्च मे'इति चनकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभङ्गौ पठितौ इति चेत्। मैवम्। `शणसप्तदशानि धान्यानी'ति स्मरणात्। तत्र चोमभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात्। न च चमकानुवाके धान्यपरिगणनेनाऽर्थः, तत्राऽधान्यानामप्यश्मादीनां पाठात्, धान्यानामपि कैषांचित्कोद्रवादीनामपाठात्। तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्लमस्तीति ज्ञेयम्।

Satishji's सूत्र-सूचिः

TBD.