Table of Contents

<<5-2-34 —- 5-2-36>>

5-2-35 कर्मणि घटो ऽठच्

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घटः इत्येतस्मिन्नर्थे अठच् प्रत्ययो भवति। ङ्हटते इति ङ्हटः। कर्मणि ङ्हटते कर्मठः पुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1812 कर्मणि घटोऽठच्। सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः। घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति–कर्मणि घटत इति। व्याप्रियत इत्यर्थः। तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः। कर्मठ इति। अठचि `नस्तद्धिते' इति टिलोपः। अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः।

तत्त्वबोधिनी

1398 कर्मणि घटो। सप्तम्यन्तात्कर्मन्?शब्दात् `घटते'इत्यर्थेऽठञ् स्यात्। कर्मठ इति। `ठस्येकः'इतीह नभवति। अठचि ठस्याऽप्रत्ययत्वेनाऽङ्गसंज्ञानिमित्तत्वाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.