Table of Contents

<<5-2-34 —- 5-2-36>>

5-2-35 कर्मणि घटो ऽठच्

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घटः इत्येतस्मिन्नर्थे अठच् प्रत्ययो भवति। ङ्हटते इति ङ्हटः। कर्मणि ङ्हटते कर्मठः पुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1812 कर्मणि घटोऽठच्। सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः। घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति–कर्मणि घटत इति। व्याप्रियत इत्यर्थः। तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः। कर्मठ इति। अठचि `नस्तद्धिते' इति टिलोपः। अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः।

तत्त्वबोधिनी

1398 कर्मणि घटो। सप्तम्यन्तात्कर्मन्?शब्दात् `घटते'इत्यर्थेऽठञ् स्यात्। कर्मठ इति। `ठस्येकः'इतीह नभवति। अठचि ठस्याऽप्रत्ययत्वेनाऽङ्गसंज्ञानिमित्तत्वाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.